॥सर्वव्याधिहर कवचम् ॥॥ रोगनाशनवैष्णव कवचम् ॥ Sarvvyadhihar kavacham ॥॥ Rognashan Vaishnav Kavacham ॥
॥ अथ सर्वव्याधिहर कवचम् ॥ वा ॥ रोगनाशनवैष्णव कवचम् ॥ हरिरुवाच :- सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् । येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ १॥ सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् । येन रक्षा कृता शम्भोर्नात्र कार्या विचारणा ॥ १॥ प्रणम्य देवमीशानमजं नित्यमनामयम् । देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ २॥ बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् ॥ ३॥ बध्नाम्यहं प्रतीकारं नमस्कृत्य जनार्दनम् । अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् ॥ ३॥ विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ ४॥ मनो मम हृषीकेशो जिह्वां रक्षतु केशवः । प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ ५॥ प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च । वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ ६॥ पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् । दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी ॥ ७॥ उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् । ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ ८॥ पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ । सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ ९॥ वराहो रक्षतु जले विषमेषु च वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १०॥ हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु । साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ ११॥ श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः । सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १२॥ सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् । हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ १३॥ त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १४॥ त्रिविक्रमस्तु मे देवः सर्वपापान्निगृह्णतु । तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १४॥ शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् । वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १५॥ पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः । दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १६॥ पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः । दत्तात्रेयः कलयतु सपुत्रपशुबान्धवम् ॥ १६॥ सर्वानरीन्नाशयतु रामः परशुना मम । रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १७॥ शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः । प्रलम्बकेशिचाणूरपूतनाकंसनाशनः । कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १८॥ अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् । पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १९॥ ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः । धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ २०॥ ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् । वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ २१॥ अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् । स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ २२॥ सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् । यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा । सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ २३॥ वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः। ते हि छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान्॥२४॥ वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः। ते हि छिन्दन्तु पापानि मम हिंसन्तु हिंसकान्॥२४॥ राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च । विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ २५॥ नदीसन्तारणे घोरे सम्प्राप्ते प्राणसंशये । अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ २६॥ विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे । जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ २७॥ अयं भगवतो मन्त्रो मन्त्राणां परमो महान् । विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् । स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत्॥२८॥ ॐ अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते । ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा । ॐ कृष्णाय स्वाहा । ॐ कृष्णरूपाय स्वाहा । ॐ चण्डाय स्वाहा । ॐ चण्डरूपाय स्वाहा । ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डरूपाय स्वाहा । ॐ सर्वाय स्वाहा । ॐ सर्वरूपाय स्वाहा । ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा । ॐ नमः अयोखेतये ये ये संज्ञापय / ॐ नमः अयोखेतये ये ये संज्ञायापात्र दैत्यदानवयक्षराक्षस- भूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणामेकाहिक द्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्या- ज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावर -जङ्गमविषादीनामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्रः पूर्वतो रक्षतु । ॐ है है है है दिनकर्सहस्रकालसमाहतो जय पश्चिमतो रक्ष। ॐ निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष । ॐ विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारी विषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष । मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय वोभयोऽभयं दिशतु च्युतः तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः। वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः । सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥ २९॥ ॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचार- काण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥

Roga Nashana Vaishnava Kavacham - ॥ श्रीरोग-नाशन-वैष्णव कवचं - श्रीगरुड पुराणम् ॥

सर्व व्याधिहर/रोगनाशक वैष्णव कवचम् | श्री वैष्णव कवचम | Rog Nashan Vaishnav Kavacham | Vishnu Kavach

इस आदित्य हृदय स्तोत्र को सुनते ही सूर्य भगवान की कृपा मिलती है । Vedic Chants from india

Remove Negative Thoughts: 432Hz Healing Krishna's Bansuri Music for Focus, Calm & Deep Inner Peace

BRIHUT SIDDH KUNJIKA संपूर्ण सिद्ध कुंजिका स्तोत्रम्(श्री६श्री गुरु श्रीशिवदत्त स्मारक गड्डी,जोधपुर)

Rudri Path रुद्री पाठ Complete rudrashtadhyayi from Shuklyajurved संपूर्ण #रुद्राभिषेक

भगवान शिव ने बताया – पत्नी के जीवन में पति बनकर कौन आता है? | BHAIRAM TALKS

Inside The World Of Bageshwar Baba!😳

SAMPUTIT HANUMAN CHALISA॥संपुटित हनुमान चालीसा॥ROG NASHAK॥रोग नाशक ॥ हनुमान जयंती॥ Hanuma Jayanti

SWARN AKARSHAN BHAIRAV STOTRAM ॥ श्रीस्वर्णाकर्षणभैरवमन्त्रमय स्तोत्रम् ॥

॥ श्रीमहागणपतिवज्रपञ्जरकवचम् ॥ ॥ Mahaganpati Vajtapanjar Kavacham॥ Pt R K Vyas Palji 9414849604

SARVVYADHIHAR VAISHNAV KAVACHAM सर्वव्याधिहर वा रोगनाशनवैष्णवकवचम् (सद्गुरु श्री शिवदत्त जी महाराज)

Rog Nashana Kavacham

Listen on Ravi Pradosh || Aditya Hridaya Stotra || Pradosh Stotra || Aditya Hridaya Stotra || Pra...

KUNJIKA STOTRAM RAHASYA: First Ever | Ft. Harshdev Madhav | Ep. 01

इन्द्राक्षीस्तोत्र |शुक्रवार को सुनिए ये स्तोत्र, मुश्किलें होंगी ख़त्म, लक्ष्मी प्राप्ति भी होगी |

Vedic Chanting | Rudri Path by 21 Brahmins

DURGA NAKSHATARA MALIKA STUTI /दुर्गा नक्षत्र मालिका स्तुति / नक्षत्र शांति / NAKSHATRA SHANTI

AMOGH SHIV KAVACHA अमोघ शिव कवच (श्रीशिव दत्त स्मारक ) 9414849604@paytm

