Sadguru #AniruddhaBapu | Thoughts on #NaradiyaBhaktisutras
Sadguru #AniruddhaBapu 's Thoughts on Naradiya Bhaktisutras #AniruddhaBapuGuidance #SadguruAniruddhaBapu #AniruddhaBapu #AniruddhaBapuThoughts #AniruddhaBapuSpirituality Lyrics of Narad Bhaktisutra : प्रथमोऽध्यायः परभक्तिस्वरूपम् अथातो भक्तिं व्याख्यास्यामः । १ - १.०१ सा त्वस्मिन् परप्रेमरूपा । २ - १.०२ अमृतस्वरूपा च । ३ - १.०३ यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ - १.०४ यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ - १.०५ यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ - १.०६ सा न कामयमाना निरोधरूपत्वात् । ७ - १.०७ निरोधस्तु लोकवेदव्यापारन्यासः । ८ - १.०८ तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ - १.०९ अन्याश्रयाणां त्यागोनन्यता । १० - १.१० लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ - १.११ भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । १२ - १.१२ अन्यथा पातित्यशङ्कया । १३ - १.१३ लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । १४ - १.१४ तल्लक्षणानि वाच्यन्ते नानामतभेदात् । १५ - १.१५ पूजादिष्वनुराग इति पाराशर्यः । १६ - १.१६ कथादिष्विति गर्गः । १७ - १.१७ आत्मरत्यविरोधेनेति शाण्डिल्यः । १८ - १.१८ नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । १९ - १.१९ अस्त्येवमेवम् । २० - १.२० यथा व्रजगोपिकानाम् । २१ - १.२१ तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः । २२ - १.२२ तद्विहीनं जाराणामिव । २३ - १.२३ नास्त्येव तस्मिन् तत्सुखसुखित्वम् । २४ - १.२४ द्वितीयोऽध्यायः परभक्तिमहत्त्वम् सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । २५ - २.०१ फलरूपत्त्वात् । २६ - २.०२ ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च । २७ - २.०३ तस्याः ज्ञानमेव साधनमित्येके । २८ - २.०४ अन्योन्याश्रयत्वमित्यन्ये । २९ - २.०५ स्वयं फलरूपतेति ब्रह्मकुमारः । ३० - २.०६ राजगृहभोजनादिषु तथैव दृष्टत्वात् । ३१ - २.०७ न तेन राजा परितोषः क्षुच्छान्तिर्वा । ३२ - २.०८ तस्मात् सैव ग्राह्या मुमुक्षुभिः । ३३ - २.०९ तृतीयोऽध्यायः भक्तिसाधनानि तस्याः साधनानि गायन्त्याचार्याः । ३४ - ३.०१ तत्तु विषयत्यागात् सङ्गत्यागात् च । ३५ - ३.०२ अव्यावृत्तभजनात् । ३६ - ३.०३ लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । ३७ - ३.०४ मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । ३८ - ३.०५ महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । ३९ - ३.०६ लभ्यतेऽपि तत्कृपयैव । ४० - ३.०७ तस्मिंस्तज्जने भेदाभावात् । ४१ - ३.०८ तदेव साध्यतां तदेव साध्यताम् । ४२ - ३.०९ दुस्सङ्गः सर्वथैव त्याज्यः । ४३ - ३.१० कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् । ४४ - ३.११ तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते । ४५ - ३.१२ कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति । ४६ - ३.१३ यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । ४७ - ३.१४ यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति । ४८ - ३.१५ यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते । ४९ - ३.१६ स तरति स तरति स लोकांस्तारयति । ५० - ३.१७ चतुर्थोऽध्यायः प्रेमनिर्वचनम् अनिर्वचनीयं प्रेमस्वरूपम् । ५१ - ४.०१ मूकास्वादनवत् । ५२ - ४.०२ प्रकाशते क्वापि पात्रे । ५३ - ४.०३ गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । ५४ - ४.०४ तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति । ५५ - ४.०५ गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा । ५६ - ४.०६ उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति । ५७ - ४.०७ अन्य मात् सौलभं भक्तौ । ५८ - ४.०८ प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् । ५९ - ४.०९ शान्तिरूपात् परमानन्दरूपाच्च । ६० - ४.१० लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् । ६१ - ४.११ न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च । ६२ - ४.१२ स्त्रीधननास्तिकचरित्रं न श्रवणीयम् । ६३ - ४.१३ अभिमानदम्भादिकं त्याज्यम् । ६४ - ४.१४ तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् । ६५ - ४.१५ त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् । ६६ - ४.१६ पञ्चमोऽध्यायः मुख्यभक्तिमहिमा भक्ता एकान्तिनो मुख्याः । ६७ - ५.०१ कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । ६८ - ५.०२ तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । ६९ - ५.०३ तन्मयाः । ७० - ५.०४ मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । ७१ - ५.०५ नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः । ७२ - ५.०६ यतस्तदीयाः । ७३ - ५.०७ वादो नावलम्ब्यः । ७४ - ५.०८ बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च । ७५ - ५.०९ भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि । ७६ - ५.१९ सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् । ७७ - ५.११ अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि । ७८ - ५.१२ सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः । ७९ - ५.१३ सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् । ८० - ५.१४ त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी । ८१ - ५.१५ गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति- वात्सल्यसक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा एकधा अपि एकादशधा भवति । ८२ - ५.१६ इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु- कौण्डिण्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्त्याचार्याः । ८३ - ५.१७ य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान् भवति सः प्रेष्टं लभते सः प्रेष्टं लभते । ८४ - ५.१८

Aniruddha Bapu's Pravachan on #NaradiyaBhaktisutras in English | #AniruddhaBapu

प्रगतीसाठी संवादाची आवश्यकता - इतरांशी आणि देवाशीही | Aniruddha Bapu Pravachan

Stop Being EMOTIONALLY DEPENDENT On People: Part 3: BK Shivani: English

Sringeri Peetham Sri Lalithaditya about Saibaba | Karunakar Sugguna Lalith Kumar | Interview Telugu

Aniruddha Chalisa | Sadguru Shree Aniruddha Bapu

जय जय आरती अनिरुद्ध राया

The Untold Side of Radhe Jaggi | The Rayane Show | Season 3 Episode 4 | Rayane Mithun

What lies beyond death? | Yamaraj reveals the biggest secret of death! | Kathopanishad

Faith and the Flow of Sai’s Omniscient Grace | Dr V Mohan | Satsang from Prasanthi Nilayam

ಏನು ಗೊತ್ತಾದರೆ ಮನುಷ್ಯ ಚಿಂತೆ ಮಾಡುವುದನ್ನು ನಿಲ್ಲಿಸುತ್ತಾನೆ?

Amit Patkar | Congress leader | Head On | Prudent | 170626

आपण "गणपती बाप्पा मोरया" का म्हणतो? | Ganesh Utsav Special | Aniruddha Bapu

Sadguru #AniruddhaBapu Pravachan in English | #NaradBhaktisutra | 20th April 2023

ओम मन सामर्थ्यदाता श्री अनिरुद्धाय नमः

Swami Gaur Gopal Das At India Today Conclave 2022 | How To Live Life To The Fullest

Fear of death | Dr.Nandu Mulmule | Khuspus with Omkar #amuktamuk #marathipodcast #spirituality

Does Advaita Reject Dvaita? | Sringeri Jagadguru Explains

रसिका गेली समीर चौघुले कडे लग्नसाठी ब्लाऊज शिवायला | Maharashtrachi HasyaJatra | Best Comedy Clip

Sadguru #AniruddhaBapu Pravachan | Naradiya Bhaktisutras | #AniruddhaBapuThoughts

