"श्री गणपति अथर्वशीर्ष "
ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्व साक्षादात्माऽसि नित्यम् ।।१।। ऋतं वच्मि । सत्यं वच्मि ।।२।। अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अव अनूचानम् । अव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधस्तात् । सर्वतो मां पाहि-पाहि समन्तात् ।।३।। त्वं वाङ्मयस्त्वं चिन्मय:। त्वमानन्दमसयस्त्वं ब्रह्ममय:। त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ।।४।। सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभ: । त्वं चत्वारि वाक्पदानि।।५।। त्वं गुणत्रयातीत:। त्वं कालत्रयातीत:। त्वं देहत्रयातीत:। त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मक:। त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव: स्वरोम् ।।६।। गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् । अनुस्वार: परतर:। अर्धेन्दुलसितम् । तारेण रुद्धम् । एतत्तव मनुस्वरूपम् । गकार: पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरूत्तररूपम् । नाद: संधानम् । संहितासंधि: । सैषा गणेश विद्या। गणक ऋषि: निचृद् गायत्री छन्द:। गणपतिर्देवता । ॐ गं गणपतये नम: ।।७।। एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ।।८।। एकदन्तं चतुर्हस्तं पाशमड्कुशधारिणम् । रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम् ।। रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताड्गं रक्तपुष्पै: सुपुजितम् ।। भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृते: पुरुषात्परम् ।। एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।।९।। नमो व्रातपतये नमो गणपतये नम: प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नम: ।।१०।। एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्व विघ्नैर्न बाध्यते। स सर्वत: सुखमेधते। स पञ्चमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोsपविघ्नो भवति । धर्म-अर्थ-काम-मोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद्दास्यति स पापीयान् भवति । सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत् ।।११।। अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ।।१२।। यो दूर्वाड्कुरैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स वाञ्छित फलम् अवाप्नोति । य: साज्यसमिद्भि: यजति स सर्वं लभते स सर्वं लभते ।।१३।। अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात् प्रमुच्यते । महापापात् प्रमुच्यते । महादोषात् प्रमुच्यते । स सर्वविद् भवति । स सर्वविद् भवति । य एवं वेद ।।१४।। इत्युपनिषत्।।

Ganpati Atharvashirsha गणपती अथर्वशीर्ष - Suresh Wadkar | Ganesh Songs, Bhakti Song | Atharvashirsha

श्री राम रक्षा स्तोत्रम् (Shri Ram Raksha Stotram)

Ganesh Atharvashirsha By Anuradha Paudwal I Ganesh Stuti

विष्णु जी की आरती (ॐ जय जगदीश हरे) Hindi

Shri Ganesh Atharvashirsham

Good News Guaranteed ! Listen this Mantra

"VISHNU SAHASRANAMAM" MS Subbulakshmi full version original recording

श्री हनुमान चालीसा 🌺🙏| Shree Hanuman Chalisa Original Video |🙏🌺| GULSHAN KUMAR | HARIHARAN | 8K

The Most Powerful Frequency of God 1111Hz - Receive immediate help from divine forces

Ganpati Atharvashirsha गणपती अथर्वशीर्ष - Suresh Wadkar | Ganpati Songs, Bhakti Song, Atharvashirsha

Shri Hanuman Chalisa (श्री हनुमान चालीसा)

Ganapathi Thalam - கணபதி தாளம். Remove Obstacles & Attract Success! 🐘

Ganapati Atharvashirsha 21 times | गणपती अथर्वशीर्ष | Ganpati atharvashirsham |Ganesh Atharvashirsha

Gauri Ganesh Stuti | Powerful Ganpati Mantra for Peace, Prosperity & Blessings | Anant Bhajan

Vishnu sahasranamam.. ma subbulakshmi, sri rama sita anjaneya sthotram

महागणपति स्तोत्रम् | सभी विघ्नों का नाश करने वाला दिव्य गणेश स्तोत्र | Mahaganapati Stotram

Atharvashirsha by Shankar Mahadevan at Lokmat 'Ti' Cha Ganpati

विष्णु सहस्रनाम केवल 12 मिनिट में | Vishnu Sahasranamam Fast | Shreeman Narayan Narayan Hari Hari

